(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.155. अध्यायः 155
Mahabharata - Adi Parva - Chapter Topics
दुर्योधनेन दानादिना प्रकृतिवशीकरणम्॥ 1 ॥ पाण्डवानां वारणावतयात्रार्थं धृतराष्ट्रानुज्ञा॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-155-0x(920)(7118)
ततो दुर्योधनो राजा सर्वास्तु प्रकृतीः शनैः।
अर्थमानप्रदानाभ्यां संजहार सहानुजः।
`युयुत्सुमपनीयैकं धार्तराष्ट्रं सहोदरम्॥' 1-155-1(7119)
धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः।
कथयाञ्चक्रिरे रम्यं नगरं वारणावतम्॥ 1-155-2(7120)
अयं समाजः सुमहान्रमणीयतमो भुवि।
उपस्थितः पशुपतेर्नगरे वारणावते॥ 1-155-3(7121)
सर्वरत्नसमाकीर्णे पुण्यदेशे मनोरमे।
इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः॥ 1-155-4(7122)
कथ्यमाने तथा रम्ये नगरे वारणावते।
गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप॥ 1-155-5(7123)
यदा त्वमन्यत नृपो जातकौतूहला इति।
उवाचैतानेत्य तदा पाण्डवानम्बिकासुतः॥ 1-155-6(7124)
`अधीतानि च शास्त्राणि युष्माभिरिह कृत्स्नशः।
अस्त्राणि च तथा द्रोणाद्गौतमाच्च शरद्वतः॥ 1-155-7(7125)
कृतकृत्या भवन्तस्तु सर्वविद्याविशारदाः।
सोऽहमेवं गते ताताश्चिन्तयामि समन्ततः।
रक्षणे व्यवहारे च राज्यस्य सततं हिते॥' 1-155-8(7126)
ममैते पुरुषा नित्यं कथयन्ति पुनःपुनः।
रमणीयतमं लोके नगरं वारणावतम्॥ 1-155-9(7127)
ते ताता यदि मन्यध्वमुत्सवं वारणावते।
सगणाः सान्वयाश्चैव विहरध्वं यथाऽमराः॥ 1-155-10(7128)
ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः।
प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः॥ 1-155-11(7129)
कंचित्कालं विहृत्यैवमनुभूय परां मुदम्।
इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ॥ 1-155-12(7130)
`निवसध्वं च तत्रैव संरक्षणपरायणाः।
वैलक्षण्यं न वै तत्र भविष्यति परंतपाः॥' 1-155-13(7131)
वैशम्पायन उवाच। 1-155-14x(921)
धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः।
आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम्॥ 1-155-14(7132)
ततो भीष्मं शान्तनवं विदुरं च महामतिम्।
द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम्॥ 1-155-15(7133)
कृपमाचार्यपुत्रं च भूरिश्रवसमेव च।
मान्यानन्यानमात्यांश्च ब्राह्मणांश्च तपोधनान्॥ 1-155-16(7134)
पुरोहितांश्च पौत्रांश्च गान्धारीं च यशस्विनीम्।
`सर्वा मातॄरुपस्पृष्ट्वा विदुरस्य च योषितः।'
युधिष्ठिरः शनैर्दीन उवाचेदं वचस्तदा॥ 1-155-17(7135)
रमणीये जनाकीर्णे नगरे वारणावते।
सगणास्तत्र यास्यामो धृतराष्ट्रस्य शासनात्॥ 1-155-18(7136)
प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत।
आशीर्भिर्बृहितानस्मान्न पापं प्रसहिष्यते॥ 1-155-19(7137)
वैशम्पायन उवाच। 1-155-20x(922)
एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः।
प्रसन्नवदना भूत्वा तेऽन्ववर्तन्त पाण्डवान्॥ 1-155-20(7138)
स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः।
मा च वोस्त्वशुभं किंचित्सर्वशः पाण्डुनन्दनाः॥ 1-155-21(7139)
ततः कृतस्वस्त्ययना राज्यलाभाय पार्थिवाः।
कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम्॥ ॥ 1-155-22(7140)

इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि पञ्चपञ्चाशदधिकशततमोऽध्यायः॥ 155 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.